Brahmi Publication

Mithila, History, Literature and Art

Esperanto for Sanskrit Part II

संस्कृतस्य सरलीकरणम्

(Esperanto for Sanskrit)

<<Esperanto for Sanskrit Part I

Proposed by Govind Jha

[अस्य साहसस्य प्रेरिका अभूत् मया चिरात् पोषिता कामना – संस्कृतं भारतस्य राष्ट्रभाषा भवेत् इति। अस्याः तदनुरूपं नाम राष्ट्रभारती इति समीचीनं प्रतिभाति। एवं सरलीकृता संस्कृतभाषा राष्ट्रभाषापदम् आरोढ़ुं समर्था भविष्यतीति मे विश्वासः।]

वयम् आत्मन आचारे विचारे व्यवहारे जीवनोपयोगिषु अन्येष्वपि बहुषु वस्तुषु च लक्षितान् दोषान् निराकृत्य अपेक्षितान् गुणांश्च आधाय तेषां परिष्करणे मुन्नयने च सततं प्रयतमानाः स्म। परन्तु भाषासु चिरात् प्रवर्तमानान् दोषान् पश्यन्तोSपि शिरसा वहन्तः तेषां निराकरणे अकारणं भीताः स्म। कस्यां कस्यां भाषायां के-के कीदृशाः कियन्तश्च दोषाः इति नाविदितम् भाषा-शास्त्रविदाम्। तथापि पतंजलिमारभ्यरभ्य चौम्सकीपर्यन्तं न कोपि भाषायाः परिष्कारं मनसापि अचिन्तयत।

तथा हि पतंजलिः– सिद्धे शब्दार्थसम्बन्धे …….। सत्यं शब्दः, अर्थः, तयोः सम्बन्धश्च लोकतः सिद्धः(नास्माभिः साध्यः)। भाषाया जन्मदाता संरक्षकः संस्कर्ता, परिपोषकश्च लोक एव। न तर्कः, नापि सौविध्यम्। संस्कृतभाषायाः धातवः, नामानि, प्रत्ययाः, उपसर्गाः निपाताश्चेति प़ञ्चापि उपादानानि लोकतः सिद्धानि। एषु सर्वेषु कालक्रमेण सम्प्राप्ताः दोषा अपि लोकतः सिद्धाः क्रमशो बहुलीभूताश्च।

भवन्तु नाम लोकसिद्धाः, दोषा हि सर्वत्र सदा त्याज्याः इत्यवधार्य विचारणीयं यत् पाणिनिमनुसरन्त्यां संस्कृतभाषायां के-के दोषाः कथं च ते निराकर्तुं शक्याः इति।

कारक-प्रत्ययाः परिमिताः, किन्तु तेषां रूपान्तराणि अपरिमितानि। इयमेव स्थितिः क्रिया-प्रत्ययानामपि। इत्थम् एकैकस्य प्रत्ययस्य नाना रूपान्तराणि भाषाया भारभूतानि। ईदृशानाम् अनपेक्षितानां रूपान्तराणां निरसनम् संस्कृत भाषायाः सरलीकरणस्य प्रथमा महती युक्तिः।

संस्कृते नाम्नां सप्त विभक्तयः, तासां विविधाः आधाराः, त्रिविधं लिंगम्, त्रिविधं वचनम्। अतः असंख्यानि नामरूपाणि। तथाहि तटशब्दः त्रिलिङ्गः। तस्य पुंलिङ्गे सप्त विभक्तय़ः। त्रीणि वचनानि। 7 × 3 = 21 रूपाणि। एवं नपुंसके1 स्त्रीलिङ्गे च 21 रूपाणि। फलतः 21 × 3 = 63 रूपाणि।

(नितान्तं विस्मयकराणि नपुंसके गवाञ्च् शब्दस्य रूपाणि यानि महावैयाकरणेन भट्टोजिदीक्षितेनसाकल्येनपरिगणितानि–

गवाक्शब्दस्य रूपाणिक्लीबेर्चागतिभेदतः

असन्थ्यवङ्-पूर्वरूपैः नवाधिकशतं (109) मतम्।)

वस्तुतः नाम्नां रूपाणि सप्तैव अपेक्षितानि। तथाहि वचनं नामगतम्। विभक्त्या तद्बोधनं पुनरुक्तिः। यथा त्रयः छात्राः क्रीड़न्तो दृश्यन्ते अत्र एकमेव बहुत्वं चतुर्धा उक्तम्। वस्तुतः एकः शब्दः त्रि इत्येव तद्बोधने समर्थः। एवं लिङगं नामगतम्, क्रियापदेन तद्बोधनं पुनरुक्तिः। संस्कृते वस्तुतः सप्तैव कारक- विभक्तयः।

ईदृश्येव स्थितिः धातुरूपाणामपि। तथाहि असंख्या धातवः। तेषां यौगिकाः ण्यन्त-सनन्त-यङन्ताः। विविधानि अवसानानि। नव गणाः। दश लकाराः। परस्मै पद-आत्मनेपदेति द्वे पदे। त्रयः पुरुषाः। त्रीणि वचनानि। त्रीणि वाच्यानि। एतानि सर्वाणि रूपभेदकराणि। अतः असंख्येयानि धातुरूपाणि। वस्तुतः धातुरूपाणि नवैव अपेक्षितानि। तथाहि वचनं कारकेषु, न कदापि व्यापारे। क्रियापदेनापि तस्य बोधनं पुनरुक्तिः। एवं पुरुषभेदः कारकगतः क्रियापदेनापि तद्बोधनं पुनरुक्तिः। इत्थम् धातूनां नवैव रूपाणि सप्रयोजनानि। ततोSधिकानि भाषाया भारभूतान्येव।
एवंविधं निरर्थकं रूपबाहुल्यं कथं दूरीकरणीयम् इति अधस्तने राष्ट्रभारती- व्याकरणे द्रष्टव्यम्।

टिप्पणी – संस्कृते एतादृशं रूपबाहुल्यं कथं सम्प्राप्तम् इत्यस्य उत्तरम् समाजशास्त्रे विशेषतः सामाजिके भाषाशास्त्रे लब्धुं शक्यम्। अत्र एतावदेव वक्तुम् अलं यत् इयं संस्कृतभाषा अतिप्राचीनानाम् इदानीं लुप्तानां विविधानां भाषाणां संम्मिश्रणेन उद्भूता। तथा हि ताभ्यो भाषाभ्यः एकतः –एन इति गृहीतम्, अन्यतः –ना इति। एकतः –ति ( पठति ), अन्यतः –ते ( वर्धते )। एवं धातवः -इ, -या, -गम् ; नामानि आपस् , पयस् , उदक , इत्यादीनि।

पूर्वोक्तानि अन्यानि च नानाविधानि निरर्थकानि भारभूतानि बाहुल्यानि वैविध्यानि च अपाकृत्य जीर्णां देववाणीं नवीनां लोकवाणीं विधातुं ममायं प्रयासः। परमपूतायां देववाण्याम् ईदृशेन हस्तक्षेपेण बहूनां नैष्ठिकानां कोपभाजनं भवेयम् इति जानन्नपि अस्याः संजीवनकामनया एतत् साहसं कर्तुम् उद्यतोSस्मि।

अस्य साहसस्य प्रेरिका अभूत् मया चिरात् पोषिता कामना – संस्कृतं भारतस्य राष्ट्रभाषा भवेत् इति। अस्याः तदनुरूपं नाम राष्ट्रभारती इति समीचीनं प्रतिभाति। एवं सरलीकृता संस्कृतभाषा राष्ट्रभाषापदम् आरोढ़ुं समर्था भविष्यतीति मे विश्वासः।

मम अपरा प्रेरिका अभवत् एस्परान्तो ( Esperanto ) नाम कृत्रिमा भाषा, या गते क्रीष्टशतके यूरोपे एस्परान्तो-नामकेन विदुषा तत्रत्याभ्यः प्राच्याभ्यः नव्याभ्यश्च भाषाभ्यः समानं सारम् उद्धृत्य एकाक्षरान् प्रत्ययांश्च प्रकल्प्य विरचिता क्रमशः राष्ट्रसंघेन अभिज्ञाता सती विद्वत्सु प्रसारं प्राप्तवती। किन्तु यूरोपीयं भाषासमुदायम् आश्रित्य विरचिता इयम् एस्परान्तो भारतवासिनां न तथा सुगम्या यथा यूरोपीयानाम्। अतोSहं संस्कृतस्य व्याकरणम्, अखिले भारते इदानीं प्रचलितान् विविधमूलकान् शब्दराशींश्च आश्रित्य अभिनवां सरलां भाषां स्रष्टुं प्रवृत्तोSस्मि।

किन्तु मम इयं सृष्टिः न तथा कृत्रिमा यथा एस्परान्तो भाषा। एतत् अधः सारिण्यां स्फुटं भविष्यति –

राष्ट्रभारती संस्कृतम् एस्परान्तो

कर्तरि     -विसर्गः/ ह विसर्गः                       -ओ
कर्मणि                -म       -अम्                    -न
करणे                  -न      -एन                  परसर्गाः
सम्प्रदाने               य      -आय                परसर्गाः
अपादाने               -त     -आत्                परसर्गाः
सम्बन्धे               -स     -स्य                  परसर्गाः
अधिकरणे            -ए     -ए                    परसर्गाः
वर्तमाने                -ति   -ति                     -अस्
भूते                      -त    -त (क्त)                  -इस्
भविष्ये                -स    -ष्य                      -ओस्

राष्ट्रभारत्यां प्रातिपदिकानि धातवश्च भारते विशेषेण उत्तरभारते विभिन्नेषु प्रदेशेषु प्रचलिताभ्यः विविधाभ्यो भाषाभ्यः गृहीताः अतः ते इदानीं प्रायेण अखिले भारते सुपरिचिता एव। संस्कृतं बहूनां भारतीयानां धर्मभाषा। ते हि इमां भाषां यथाकथंचित् यत्किंचित् अवश्यं जानन्ति। अस्यां नाम्नां धातूनां च बहवो विभक्तयः मनाक् परिष्कृत्य संस्कृतात् गृहीताः प्रायेण बहुजनपरिचिता एव अस्माकं देशे।

व्याकरणं भाषायाः इन्द्रियाणि, कोशः कायः। राष्ट्रभारत्याः इन्द्रियाणां परिष्कारः मया त्रिनवतितमे वयसि संक्षिप्तम् अधस्तनं व्याकरणं विरच्य कथंचित् कृतः। किन्तु कोषं चिन्तयतो मम मुखात् स्वतो निःसरति – उत्पत्स्यते मम तु कोपि समानधर्मा। तथापि तस्य उत्पत्स्यमानस्य मार्गदर्शनाय उच्यते किंचित्। पर्यायबाहुल्यं न केवलं भारभूतमेव, बहुधा भ्रान्तिकरमपि। भाषायाः त्रिविधा शैली भवति आलंकारिकी, शास्त्रीया व्यावहरिकी चेति। तत्र व्यावहारिक्यां पर्यायवाचिनः सर्वथा त्याज्याः। विविधासु भाषासु नवोद्भूतेषु अर्थेषु सृष्टाः शब्दाः स्वनतन्त्रं संस्कृतानुकूलं कृत्वा ग्राह्याः। अलम् अधिकेन।

Excerpt from writer’s coming book Tripathaga


Read next>>

3 thoughts on “Esperanto for Sanskrit Part II

  1. संस्कृतं केवलं एक भाषा नास्ति अपितु अस्माकं संस्कृति च। भारतस्य राष्ट्रभाषा इदमेव अस्ति किंवा भविष्यति किन्तु तदर्थ सतत प्रयत्नं अपेक्षते। सरलीकरणं आवश्यकं यथा द्विवचनं किं आवश्यकता? त्रिलकारं पर्याप्तं।

Leave a Reply

Your email address will not be published.

error: Content is protected !!