Brahmi Publication

Mithila, History, Literature and Art

Esperanto for Sanskrit Part III

राष्ट्रभारती-व्याकरणम्

(Esperanto for Sanskrit)

Established and proposed by  Govind Jha

Esperanto for Sanskrit Part I

Esperanto for Sanskrit Part II


  1. स्वनाः – अआइईउऊएऐओऔऋ कखगघङ चछजझञ टठकडढण तथदधन पफबभम यरलव शषसह इति चतुश्चत्वारिंशत् स्वनाः। एषु विसर्गस्य स्थाने हकारो वा। नासिक्यानां स्थाने अनुस्वारः वैकल्पिकः, यथा पङ्कजम् चञ्चलम्, कण्ठम्, अन्तम्, इत्येतेषां स्थाने पंकजं, चंचलं, कंठं, अंतं, चंपकं इति यथाक्रमम् ऐच्छिकम्। ऋस्वरः संस्कृते द्विधा उच्चार्यते, ऱि सदृशः, रु सदृशो वा। ऋ एकमातृकः, रि सार्धैकमातृकः। तथा च प्रकृति इति त्रिमात्रिकः, प्रक्रम इति चतुर्मात्रिकः, संयोगे गुरुः इति नियमात्।
  2. सन्धिः – अत्र सन्धिः पदाभ्यन्तर एव। यथा प्रत्ययेन, उपसर्गेण, समासे पदान्तरेण च । स पंचविधः सवर्णदीर्घः, दीर्घस्य ह्रस्वता, स्वनलोपः, यकारागमः, वकारागमश्च। उदाहरणानि नामरूपावल्यां धातुरूपावल्यां च द्रष्टव्यानि।
  3. नामानि ( सुप् ) — अर्थवान् लघुतमः स्वनराशिः द्विविधः वस्तुवाचकः व्यापारवाचकश्च। प्रथमः नाम इत्युच्यते, द्वितीयः धातु इति। उभौ भाषायाः बीजम्। तस्य प्ररोहो भाषा। नामानि द्विविधानि मौलिकानि ( अव्युत्पन्नानि ) व्युत्पन्नानि च। व्युत्पन्नानि त्रिविधानि कृदन्तानि ( 8 द्र ), तद्धितान्तानि, समासाश्च ( 6 द्र )। नाम्नि त्रयो गुणाः कारकम्, लिंगम्, वचनं च।
  4. कारकम् — विभक्तियुक्तं नाम कारकम् इत्युच्यते। तस्य सप्त रूपाणि भवन्ति — (1) कर्तारि – विसर्गः, (2) कर्मणि –म्, (3) करणे -एन, (4) सम्प्रदाने –आय, (5) अपादाने –आत्, (6) सम्बन्धे –स्य (7) अधिकरणे –ए। यथा घटः, घटम्, घटेन, घटाय, घटात्, घटस्य, घटे।

 विभक्तियोजनात् पूर्वम् आधारः सरलीकरणीयः। यथा (क) यदि अन्ते व्यञ्जनं तदा अकारो योज्यः, यथा उपनिषद् इत्यस्य स्थाने उपनिषद। तस्य रूपाणि उपनिषदः, उपनिषदम्, उपनिषदेन इत्या. (ख) अवसाने ऋकारस्य स्थाने अर । यथा पितृ – पितर। पितरः, पितरम्, पितरेन। (ग) गो-शब्दस्य गाव आदेशः। (ग) नौ-शब्दस्य नाव आदेशः। (घ) एजन्तेषु व्यक्तिनामसु ककारो योज्यः, यथा चौबेकः, चौबेकम्।

कारकप्रत्ययेषु चत्वारः स्वरादयः —एन ( तृतीया ), -आय ( चतुर्थी ), आत् ( पंचमी ), – ( सप्तमी ) । एषु परेषु आधारस्य अन्त्यः अकारो लुप्यते, यथा घट एन घटेन, घट आत् घटात्, घट ए घटे। आधारस्य अन्ते आ इ ई स्वरः चेत्, यकारागमः, उ ऊ चेत् वकारागमः, पूर्वस्य स्वरस्य ह्रस्वता च। उदाहरणानि अघः सारिण्यां द्रष्टव्यानि।                   

  1. नामरूपावली

प्रथमा          द्वितीया        तृतीया       चतुर्थी         पंचमी        षष्ठी          सप्तमी

  • तटः              तटम्             तटेन          तटाय           तटात्         तटस्य       तटे
  • पितरः          पितरम्          पितरेन      पितराय       पितरात्       पितरस्य    पितरे
  • धाराः            धाराम्           धारायेन     धाराय,          धारात्,        धारास्य    धाराये
  • राजाः            राजाम्          राजायेन    राजाय           राजात्         राजास्य   राजाये
  • गिरिः            गिरिम्          गिरियेन    गिरियाय       गिरियात्      गिरिस्य  गिरिये
  • नदीः             नदीम्           नदियेन     नदियाय         नदियात्      नदीस्य   नदिये
  • धनीः            धनीम्           धनियेन    धनियाय         धनियात्     धनीस्य   धनिये
  • तरुः             तरुम्             तरुवेन      तरुवाय           तरुवात्       तरुस्य     तरुवे
  • भूः            भूम्                 भूवेन         भूवाय             भूवात्         भूस्य       भूवे
  • गावः        गावम्              गावेन         गावाय            गावात        गावस्य    गावे

नामवत् विशेषणे अपि विभक्तिः। यथा सुशीलः बालकः। ( 12 द्र)

  1. लिङ्गम् – लिङ्गं दैहिकम् ( सेक्स ), नतु शाब्दिकम् ( जेन्डर)। तत् पुरुषे स्त्रियां च। स्त्रीप्रत्ययः ईकारः सर्वत्र। यथा देव-देवी, मानव-मानवी, गाव-गावी, अज-अजी।

टि – गौः चरति इत्युक्ते न ज्ञायते गावो वा, गावी वा, उभयं वेति। अतः अस्य वाक्यस्य परिशुद्धोsनुवादो न हिन्द्यां न वा अंग्रेज्यां सम्भवति। यः चौर्यं करोति स दण्ड्यः इत्युक्ते नार्यः अदण्ड्याः प्रतीयन्ते। ईदृशीं भ्रान्तिं संशयं च निराकर्तुं न संस्कृतस्य व्याकरणं समर्थम्, न हिन्द्याः, नापि अंग्रेज्याः। यदि व्याकरणेन युगपत् उभयलिङ्गव्यञ्जनम् इष्टम् तदा कश्चित् संकेतः कल्प्यः।

  1. वचनम् (संख्या ) –वचनं नाम्न्येव। तद्बोधकः आदौ संख्यावाचकः शब्दः। यथा – एककविः, द्विकवि, बहुकवि संख्यावाचकाः – .
  •      एक,, द्वि, त्रि, चतुर, पञ्च, षट, सप्त, अष्ट, नव, दश,
  •      एकदश, द्विदश, त्रिदश, चतुर्दश, पञ्चदश, षटदश, सप्तदश, अष्टदश,   नवदश, विंश।
  •      एकविंश, द्विविंश, त्रिंश, चतुर्विंश पञ्चविंश, षट्विंश, सप्तविंश, अष्टविंश, नवविंश, त्रिंश ,
  •      एकत्रिंश तइत्यादि शत, सहस्र, अयुत, लक्ष, कोटि।
  •      एकचत्वारिंश, ….नवचत्वारिंश, पंचाश।
  •      एकपंचाश,…….. नवपंचाश, षष्टि।
  •      एकषष्टि, नवषष्टि, सप्तति
  •      एकसप्तति, ..नवसपतति, अशीति।
  •      एकाशीति, द्विअशीति, …….नवाशीति, नवति
  •      एकनवति, …..नवनवति, शतम्

1 .एक, 10 दश, 100 शत, 1000 सहस्र, 10,000 अयुत, 10,0000 लक्ष, 1000000 कोटि। अनुक्रमे -म सर्वत्र। यथा एकमः, द्विमः, त्रिमः इत्यादि। 2म, 3म इत्यादीनि च। आवृत्तौ –वारम्। एकवारम्, द्विवारम्। एकैकक्रमे –शः। एकशः, द्विशः।

 8 सर्वनाम — सर्वनामानि चतुर्विधानि – ( क ) पुरुषवाचकम् –- प्रथमपुरुषः म- , ;द्वितीयपुरुषः त्व- , तृतीयपुरुषः स- ( निकटे ), अस- ( दूरे ) । (ख) निर्देशवाचकम् – निर्देश्यम् -य. प्रतिनिर्देश्यम् – त- । (ग) प्रश्नवाचकम् – क- ।

सर्वेषां सर्वनाम्नां रूपाणि नामवत्। तद् यथा – मः ( अहम् ), मम् ( माम् ), मेन ( मया ), माय ( मह्यम् ), मात् ( मत् ), मस्य ( मम ), मे ( मयि ) इ.। सर्वनाममूलकाः अन्ये प्रत्ययाः अव्ययप्रकरणे द्रष्टव्याः।
9. तद्धितप्रत्ययाः – तद्धितप्रत्ययैः यौगिकानि नामानि सिध्यन्ति। संस्कृते केषुचित् प्रत्ययेषु परेषु आधारे आदिवृद्धिर्जायते। अस्यां सा यथासंभवं वर्जनीया। तद्धितप्रत्ययो द्विविधः, सम्बन्धवाचकः इकसंसारिक, समाजिक, इतिहासिक, ग्रामिक। भाववाचकः –त्व –- मधुरत्वम्, मनुष्यत्वम्, जलत्वम्, ममत्वम्।

10.समासः — द्वयोः पदायोः एकपदत्वं समासः। स त्रिविध एव। उत्तरपदप्रधानः तत्पुरुषः। यथा, राष्ट्रस्य पतिः राष्ट्रपतिः। अन्यपदार्थप्रधानः बहुव्रीहिः। यथा. लम्बोदरः। सर्वपदसमानो द्वन्द्वः। यथा, विद्याबुद्धिविवेकः। बहुपदो द्वन्द्व एव। तत्पुरुषः बहुव्रीहिश्च द्विपद एव। अव्ययीभावः अव्ययप्रकरणे द्रष्टव्यः।

11. धातवः – तृतीयकाण्डारम्भे उक्तं स्मर्तव्यम् – अर्थवान् लघुतमः स्वनराशिः द्विविधः वस्तुवाचकः, व्यापारवाचकश्च। प्रथमः नाम इत्युच्यते, द्वितीयः धातु इति। तत्र नाम्नो विवेचनम् उपरि कृतम्। धातो आरभ्यते। धातूनां रूपबाहुल्यं परिहर्तुं तेषु अधस्तनाः स्वनसंस्काराः कर्तव्याः

  • व्यञ्जनान्ते –                  पठ्+ति पठति,                          गम्+ ति गमति।      
  • आकारान्ते –                   याति यायति,                          पाति पायति,
  • इकार-ईकारयोः अय –        जिति    जयति,                       नीति नयति।
  • उकार-ऊकारयोः अव –       श्रु +ति श्रवति,                              भू + ति भवति।
  • ऋकारस्य अर                  कृति करति,                            सृति सरति।
  • ऐकारस्य आय –                 गैति गायति,                           ध्यैति ध्यायति।
  • ओकारस्य आव –               दोति दावति,                            सोति सावति।

इत्थम् राष्ट्रभारत्यां सर्व एव धातवः अकारान्ताः संवृत्ताः। तत्प्रसादात् अत्र सर्वेषां धातूनां सर्वाँणि रूपाणि एकविधानि जायन्ते। तथा हि

  1. धातुरूपावली

धातोः दशविधानि रूपाणि भवन्ति। तानि सर्वाणि कर- ( कृ ) धातौ अधः उदाहृयन्ते –

क. ज्ञापने – (1) वर्तमाने करति। (2) भूते करित। (3) भविष्ये करिसति।
ख. प्रेरणे – (4) आज्ञायाम् कर। (5) अनुज्ञायाम करतु। (6) अनुशंसायाम् करेतु। (7) सम्भावने आशङ्कने च करेत। (8) हेतुमति आदौ यदि, अन्ते वा चेत्। (9) इच्छायाम् करीसति इत्यादि।
ग. कर्मवाच्ये – (10) करीयति इत्यादि।

  1. बहुपदीयं क्रियापदम्

     आधुनिकासु अनेकासु भाषासु विविधेषु अर्थेषु नानाविधानि बहुपदानि आख्यातानि प्रयुज्यन्ते। तेषां प्रतिरूपाणि अस्यां भाषायां रचितानि अधः सारिण्यां द्रष्टव्यानि।

                      रूपाणि

  • वर्तमानसामान्यं   करता          करति
  • वर्तमान+वर्तमानं  करता है        करन्तः
  • असति       वर्तमान+भूतं     करता था करन्तः असित
  • वर्तमान+भविष्यं   करता होगा      करन्तः असिसति
  • भूत सामान्य         किया           करित
  • भूत+वर्तमानं     किया है         करितवन्तः असति
  • भूत+भूतं        किया था        करितवन्तः असित
  • भूत+भविष्यं     किया होगा      करितवन्तः असिसति
  • भविष्यसामान्यं   करेगा          करिसति
  • भविष्य+वर्तमानं   करनेवाला है     करिसन्तः असति
  • भविष्य+भूतं     करनेवाला था    करिसन्तः असित
  • भविष्ये+ भविष्यं  पढ़नेवाला होगा   करिसन्तः असिसति

टिप्पणी – लड़का पढ़ रहा है। उसे मत भेजो। अत्र रह धातुः संस्कृते नास्ति। तेन अस्य वाक्यस्य संस्कृते अनुवादः शब्दशः न शक्यः। भंग्यन्तरेण शक्यः यथा — पठन्तं बालकं मा प्रेषय। वह जो लड़का खेल रहा है उस से यह काम कराना चाहिये। अमुना क्रीड़ता बालकेन एतत् कार्यं साधनीयम्। जो दूसरा लड़का आने वाला है उसे यह पुस्तक देनी है। अमुष्मै आगमिष्यते अपराय छात्राय इदं पुस्तकं देयम्।

  1. कृदन्तानि नामानि — धातोः प्रत्ययेन योगे क्रियापदानि, नामानि, अव्ययानि च जायन्ते। तत्र नामसाधकः प्रत्ययः कृत् इत्युच्यते। अतो धातु जातानि नामानि कृदन्तानि । तानि कर-धातुम् आश्रित्य उदाहृयन्ते।

कालवाचकः– वर्तमाने (1) करन्त। भविष्यति (2) करिसन्त। भूते  (3) करित।
कालक्रमवाचकः — पूर्वकाले (4) करित्वा। उत्तरकाले (5) करितुम्।.
     कर्मवाचकः — विधेये (6) करितव्य, (7) करेय। अनुशंसायाम् (8)  करनीय।.
कर्तृवाचकः – (9) कारक, (10) करिता।
भाववाचकः – (11) करन, (12) कर, (14) कार।

अधस्तन्यां सारिण्याम् कृदन्तानि रूपाणि ऱाष्ट्रभारत्याः नियमान् अनुसृत्य प्रदर्शितानि। एषां पारम्परिकानि रूपाण्यपि तात्कालिकाय सौविध्याय ग्राह्यानि। यथा पठकः पाठको वा। करिता कर्ता वा, नयिता नेता वा।

सारिणी

  1. –अ        पाठ              याय               जय             श्रव                 -कर/ -कार
  2. -क         पाठक          यायक            जयक          श्रवक             कारक
  3. -त          पठित          यात               जयित         श्रवित             करित
  4. -तव्य     पठितव्य      यातव्य           जयितव्य    श्रवितव्य       करितव्य
  5. -ता         पठिता         याता              जयिता         श्रविता         करिता
  6. -तुम्       पठितुम्       यातुम्            जयितुम्      श्रवितुम्        करितुम्
  7. -त्वा       पठित्वा       यात्वा             जयित्वा      श्रवित्वा        करित्वा
  8. -न         पठन            यान               जयन          श्रवण             करण
  9. न्त         पठन्त           यान्त            जयन्त         श्रवन्त          करन्त

टि – अकारान्ते धातौ, -क प्रत्यये आदिवृद्धिः वैकल्पिकी। यथा पठकः पाठको वा।

  1. उपसर्गाः — उपसर्गाः अधोनिर्दिष्टेषु अर्थेषु यथेच्छं प्रयोज्याः, न तु धातुविशेषे एव। यथा
  • अति उत्कर्षे अतिक्रमणे च – मेधावी छात्रः गुरुम् अतिवर्तते
  • अधि ऊर्ध्वस्थितौ – अधिरोहति।
  • अनु सदृशाचरणे, पश्चाद्भावे च. – अनुगमति, अनुतपति, अनुवदति।
  • अप पृथग्भावे निन्दाया च – अपसरति. अपवदति।
  • अव अधोगतौ – अवतरति — अवगमति मर्मम्।
  • आभिमुख्ये- आगमति — आह्वयति।
  • उत् ऊर्ध्वगतौ अपसारणे च — उत्तिष्ठति,उत्खनति
  • नि प्रतिबन्धे – निग्रहः, निरोधः, नियन्त्रणम्।,
  • निस् अपसरणे – निःसरति, निर्गमति।
  • परा प्रतिवर्तने वैपरीत्ये च — परावर्तति, पराजयति।
  • प्र अग्रगतौ – प्रचरति, प्रवर्तते।
  • प्रति विपरीताचरणे – प्रत्यागमति, प्रतिकरोति
  • सम् साहित्ये – संगमति, संवसति।
  1. अव्ययम् – अव्ययं द्विविधम् मौलिकं यौगिकं च। मौलिकेषु राष्ट्रभारत्यां एतानि अव्ययानि अपेक्षितानि – च, तथा, सह, अपि, एव, तु, किन्तु, अपितु, अथवा, वा, यदि, चेत्, एवम्, तर्हि, न, मा, सकृत्, पुनः, मुहुः। एषाम् अर्थाः वाक्ये स्थानं च संस्कृतवत्। यौगिकं सर्वनामजम्। तत् पंचविधम्
    (क) कालवाचकम् — कदा, यदा, तदा, एकदा, सर्वदा।
    (ख) स्थानवाचकम् – अत्र,, यत्र,, तत्र, सर्वत्र।
    (ग) हेतुवाचकम् – कतः, यतः, ततः, अतः
    (घ) रीतिवाचकम् – कथा, यथा, तथा, सर्वथा।
    (ङ) अनिर्धारणे – चित्। कःचित, कं चित, केन चित।
  2. वाक्यम् — कारकान्वितायाः क्रियायाः वाचकं वाक्यम्। तत् द्विपदं बहुपदं च। तत्र पदं द्विविधम् विशेष्यं ( द्रव्यवाचकम् ), विशेषणं ( गुणवाचकम् ) च। वाक्ये पदानां अनुक्रमः ऐच्छिकः, किन्तु विशेष्यविशेषणयोः उद्देश्य विधेयभावे विधेयं सदा परम्। यथा एसः वटुः सुशीलः। ईदृशं वाक्यं क्रियापदं नापेक्षते। विशेष्यविशेषणयोर्मध्ये विशेषणद्वयमध्ये च पदान्तरेण व्यवधानं वर्जितम्।
  3. विशेषणम् — विशेषणं द्विविधम्, नामरूपम् अव्ययरूपं च। प्रथमं विशेष्यवद् विभक्तिं भजते, यथा शीतलः जलः, शीतले जले। यदा तत् क्रियां विशिनष्टि, तदा कर्म-कारकस्य विभक्तिं भजते। यथा मन्दं गमति, मधुरं भासति। विशेषणं पुनः प्रकारान्तरेण द्विविधम् नामजं सर्वनामजं च। प्रथमम् उक्तम्। द्वितीयम् अव्ययरूपम् अव्ययप्रकरणे द्रष्टव्यम्।

इति गोविन्दझाविरचितं राष्ट्रभारती-व्याकरणं समाप्तम्

(C) All rights are reserved : Govind Jha Contact for further help:   email: ptgovind.jha@gmail.com

excerpts from writer’s coming book Tripathaga

3 thoughts on “Esperanto for Sanskrit Part III

Leave a Reply

Your email address will not be published.

error: Content is protected !!