Brahmi Publication

Mithila, History, Literature and Art

Sharada Shatanama Stotram

शारदाशतनामस्तोत्रम्

नमः श्रीशारदादेव्यै।।

ईश्वर उवाच

नमामि शारदां देवीं शुद्धतत्त्वस्वरूपिणीम्।

शतनाम प्रवक्ष्यामि सद्यःसिद्धिकरं नृणाम्।।1।।

श्रीशंकरीं शकलचन्द्रविभूषणाढ्यां

शार्दूलचर्मवसनां शशिशेखरान्ताम्।

शक्रध्वजां शरणपालिनिशब्दरूपां

शर्वेश्वरीं शिवरतां शितिकण्ठपूज्यां।।2।।

शापानुग्रहकारिणीं शशिनिभां शालेश्वरीं शारदां

शालूकप्रियतोषिणीं शिशुरतां शाक्तप्रियां शीतलाम्।

शिल्पज्ञां शिखिनृत्यमोदरुचिरां शिष्यां शिलाकन्दरां

शुभ्रां शुभ्रविलेपनीं शुचिमतीं शुम्भादिदैत्यार्दिदनीम्।।3।।

शान्तां शान्तिविवर्द्धिनीं शशिकलां शुक्लाम्बरां ह्लादिनीं

शीलां शीतकनाशिनीं शशिनिभां शंख्यां च शक्तिप्रदाम्।

शंखाभां शुचिज्ञानदां च शरणां श्यामां च शाकप्रियां

शक्रानन्दविवर्द्धिनीं शुभकरीं शाकम्भरीं शाल्मलीं।।4।।

शाकुन्ताधिपगामिनीं शुतवतीं शैलेश्वरीं शेखरां

शव्यां शंखनिनादमोदरुचिरां शास्त्रानुगां शालिनीम्।

शालग्रामकृतालयां शशिमुखीं शुक्रार्चितां शान्तिदां

शास्त्राज्ञां शतरूपिणीं श्रुतिमतीं शत्यां च शाक्तप्रदाम्।।5।।

शर्वाणीं शिखिवाहिनीं शृणिधरां शामार्चितां शंखिनीं

शुश्रूषां शितिकण्ठपूजनपरां शान्तस्वरूपां शुकाम्।

शाटीभूषणभूषितां शरणदां शापोपहन्त्रीं परां

शुद्धां शारदचन्द्रकान्तिनिवहां श्रीबीजतत्त्वात्मिकाम्।।6।।

शिरीषवनवासिनीं शिशिरनाशिनीं शाम्भवीं

शचीपतिपदार्चितां शिविरवासिनीं शर्वरीम्।

शनैश्चरनुतां सदाशलभरूपिणीं शिल्पिनीं

शिखीवनविनोदिनीं शिखरवासिनीं शम्बरीम्।।7।।

शरभेश्वरपूजितां सदा शतपुष्पां शतपत्रावासिनीम्।

शरचापविभूषणां सदा ‘शरजू’तीरनिवासिनीं शयाम्।।8।।

शक्रार्चितां शक्तिरतां शीघ्रबुद्धिविवर्धनींम्।

शुभ्रवस्त्रापरीधनां शुभ्रपुष्पार्चितां शुभाम्।।9।।

error: Content is protected !!