Esperanto for Sanskrit Part I

राष्ट्रभारती

(Introduction to Esperanto for Sanskrit)

Govind Jha

Esperanto for Sanskrit Part II

Esperanto for Sanskrit Part III

क. वाक्यार्थबोधे मुख्यत्वविचारः

वाक्ये क्रियापदं प्रधानमिति वैयाकरणाः, कर्तृपदं प्रधानमति नैयायिकाः।

अनयोः कतरः पक्षः साधुरिति वाक्यलक्षणेंन निर्णेतुं शक्यम्। भर्तृहरिणा वाक्य- वाक्यपदीये वाक्यस्य अष्ट लक्षणानि प्रोक्तनि –

1. आख्यातशब्दः 2. संघातो 3. जातिः संघातवर्तिनी।

4. एकोनवयवः सङ्घः 5. क्रमो 6. बुद्ध्यनुसंहृतिः।।

7. आद्यं पदं पृथक् 8. सर्वं पदं साकाङ्क्षमित्यपि।

वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायवादिनाम्।।

एषु प्रथमं लक्षणम् आख्यातशब्दो वाक्यमिति। आख्यातशब्दो नाम क्रियापदम्। तदेव वाक्यम्। अन्यानि सर्वाणि पदानि तस्य विशेषणानि। तथा हि देवदत्तः मध्याह्ने तालपत्रे न्यायसूत्राणि लिखतीति वाक्यस्य अन्वितोऽर्थः – देवदत्त कर्तृकः मध्याह्नकालिकः तालपत्राधिकरणकः न्यायसूत्रकर्मकः लेखनव्यापारः। अत्र लेखनव्यापारो मुख्यः, अन्ये सर्वे अर्थाः तस्य विशेषकाः। अयमेव वैयाकरणैः अनुसृतो मार्गः।

भर्तृहरिप्रोक्तं सप्तमं लक्षणम् आद्यं पदं वाक्यम् इति विशेषतो विवेच्यम्। वाग्व्यवहारे कर्तृवाचकस्यैव पदस्य आदो प्रयोगो दृश्यते अतोSत्र आद्यपदं कर्तृ- परम्। तथा च कर्तृवाचकं पदं वाक्यम्, अन्यानि सर्वाणि पदानि साक्षात् परम्परया वा तस्य विशेषणानि इति सप्तमस्य लक्षणस्य आशयः। इदं लक्षणं मूलतः पाणिनिना कृतस्य स्वतन्त्रः कर्ता इति लक्षणस्य अनुवादः। तदनुसार्येव प्रथमान्तार्थमुख्यविशेष्यकः शाब्दबोध इति  नैयायिकानां मतम्। एतन्मतानुसारम्  एव क्रियान्वयित्त्वं कारकत्वम् इति, कारकाणां क्रिययैवान्वयः इति च प्रसिद्धिः।

इत्थं निरूपितयोः पक्षयोः कतरो ग्राह्य इति विद्वांसः स्वयं निर्णेतुं समर्थाः। अहं मौनमेव श्रेयो मन्ये। तथापि विषयोपस्थापनमिषेण किंचत् उच्यते। स्वतन्त्रः कर्ता इति पाणिनिः। पदम् आद्यम् इति कात्यायनः। उभयोर्मतम् अखण्डनीयं विभावयन् अहम् मन्ये वाक्ये कर्ता विशेष्यः, अन्यानि सर्वाणि पदानि कर्तुः  विशेषणानि। आधुनिकेषु भाषाशास्त्रिषु केचित् वाक्यं एकशीर्षकम्, केचित् द्विशीर्षकम् केचिच्च त्रिशीर्षकम् आहुः। केचित् एकां क्रियामेव शीर्षं अवधारयन्तः वाक्यगतम् अन्यत् सर्वम् क्रिया-विशेषणम् मन्यन्ते।

अत्र इदमपि अवधेयं यत् वाक्यं क्रियापदहीनमपि भवति, यथा – अयम् आम्रतरुः, असौ पनसतरुः। यदि आख्यातशब्दो वाक्यम्, अत्र वाक्यत्वं नोपपद्यते। ईदृशे वाक्ये अस्तीति क्रियापदम् अध्याहार्यम् इति प्राच्या वैयाकरणाः। नव्यास्तु तत् नानुमन्यन्ते। अध्याहारो हि अन्यथा अनुपपत्तावेव भवति। नात्र सा प्रतीयते।

वाक्ये एकः पदार्थः उद्देश्यो ( निर्दिश्यमानः ) भवति, अपरः विधेयः ( प्रति निर्दिश्यमानः)। तथा हि देवदत्तः कस्य पुत्रः इति पृष्टो यदा भवदत्तस्य इति प्रतिवदति तदा उत्तरवाक्ये भवदत्तो विधेयो भवति, यदा तु को भवदत्तस्य पुत्र इति प्रश्ने देवदत्त इत्युत्तरम् तदा देवदत्तो विधेयो भवति। ईदृशे वाक्ये बोधस्य अयं तृतीयः प्रकारः प्रकरणात् व्यंग्यः, न वाच्यः। शब्दवाच्यः प्रथम एव, द्वितीयस्तु प्रथमार्थव्यङ्ग्यः अपरोऽर्थः इति वैयाकरणाः नैयायिकाश्च। परे तु व्यङ्यस्यापि अर्थस्य मूलतः शब्दगम्यत्वात् शाब्दबोधविषयत्वम् अव्याहतम्। अत्र पाश्चात्या विद्वांसस्तु विधेयतां बलाघातगम्याम् आहुः।

भर्तृहरिणा तु अस्य प्रश्नस्य समाधानम् अष्टमेन वाक्यलक्षणेन कृतम् – पदं सर्वम् इति। तथाहि वाक्यार्थान्तर्गतेषु पदार्थेषु यत्र-यत्र विधेयता तत्तद्वाचकं सर्वं पदम् पर्यायेण वाक्यम्।

अस्मिन् प्रसंगे किं नाम कारकम् इत्यपि विवेनीयम्। क्रियान्वयित्वं तत् इति चेत् सर्वेषां पदानां साक्षात् परम्परया वा क्रियान्वयित्वेन महती अतिव्याप्तिः। कारकाणां प्तत्वमपि अलीकं भवेत्। अतः कारकम् इति स्वादीनां सप्तानां विभक्तीनां संज्ञा इत्येव साधु प्रतिभाति।

– Excerpt for writer’s coming book Tripathaga


Read Next>>