शोध-निबन्ध- भवनाथ झा

प्रकाशन विवरण- पुस्तक- सारस्वतनिबन्धावली, विद्यावाचस्पति डॉ. उमारमणझा अभिनन्दन ग्रन्थः , सम्पादक-  डॉ. धनिरामशास्त्री, सम्पादकमण्डल- डॉ. बटोही झा, डॉ. विजय पाल शास्त्री, डॉ. के. भरतभूषण, डॉ. सतीरमण झा, डॉ. रामलखन पाण्डेय, डॉ. जी.एस.आर. कृष्णमूर्ति, डॉ. किशोरी रमण झा, डॉ. भारत भूषण त्रिपाठी, पं. श्री विमलेश झा। प्रकाशक- सरस्वती शोध संस्थान, 3, प्रीति विहार, सुरेन्द्र नगर, पो. आ. – चिनहट, लखनउ (उ. प्र.), प्रकाशन वर्ष- प्रथम संस्करण, 2006, पृष्ठ संख्या- 462 से 466 पर्यन्त।

कापीराइट- लेखकाधीन

भारतीयानामार्याणां दिव्यज्ञानविषयीभूतानां वेदानामङ्गत्वात् भगवतो वेदपुरुषस्य नेत्रत्वाच्च ज्योतिःशास्त्रस्यापि वेदवदपौरुषेयता प्राचीनता च स्वीकृता पुण्यश्लोकैर्महर्षिभिः वेदविद्धिः “एवमिमे सर्वे वेदाः निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वयाख्याताः सपुराणाः सस्वराः” इति सामगोपथब्राह्मणोक्तेः। तत्र इतिहासानुशीलनस्य अवकाश एव नास्ति। किन्तु यदि शास्त्राणां पौरुषेयतापक्षे विविधैरन्तःसाक्ष्यबहिःसाक्ष्यैः कालक्रममधिकृत्य पौर्वापर्यनिर्णयः क्रियते तत्र कतिपयैराधुनिकैः आङ्गलविद्वद्भिः अस्मद्देशप्रसूतैश्चाङ्गलभक्तैः विद्वद्भिः ज्योतिशास्त्रस्य विशेषतः फलितस्य अर्वाचीनता सूचिता। डा० नेमिचन्द्रशास्त्री महोदयः जी.आर.के. इति नामधेयस्य विदुषो ‘हिन्दू एस्ट्रोनोमी’ इति ग्रन्थं पूर्वपक्षतया उद्धरति यत्- भारते टॉलमी महाशयस्य ज्योतिःसिद्धान्तस्तु अर्वाचीनकाले परिगृहीतः, किन्तु प्राचीनयूनानराष्ट्रियाणां सिद्धान्तानां परम्परायाः निर्वहणं प्राचीनकालादेव क्रियते। भारतीयज्योतिःशास्त्रस्य मूलभूताः सिद्धान्तास्तु यवनानां सम्पर्कवि प्रस्फुटिताः । किं बहुना, राशीनां नामान्यपि न सन्ति भारतीयानीति। 

गुणाकर मूले महोदयोऽपि इतिहासतत्त्ववेत्ता एवमेव स्वीकरोति यत्- राशीनां नामानि फलितज्योतिःशास्त्रञ्च भारते प्रायेण सिकन्दरस्याक्रमणकाले पश्चादपि शकानामाक्रमणकाले तैः वैदेशिकैः सह प्रसृतानीति । तेषां मतेन महाभारते राशीनामनुल्लेखादयं निष्कर्षः प्राप्यते। 

परमियं युक्तिः सम्यक्प्रकारेणानुशीलनेन खण्डिता जायते। यदि नाम महाभारते मेषादीनां राशीनां नामानि नैवोपलभ्यन्ते, तेन एतेषां विदेशादायातत्वन्तु न सिद्ध्यति, महाभारतादपि प्राचीनतरे वाल्मीकीयरामायणे आदिकाव्ये होरा-संहिता-शकुन-सामुद्रिक-स्वप्नविचारैः सह राशीनामप्युल्लेखात् । किञ्च अनेन फलितज्योतिःशास्त्रस्यापि प्राचीनता सिद्ध्यति । तस्मादत्र निबन्धे रामायणोक्तानि ज्योतिःशास्त्रीयतत्त्वानि समाहृत्य एतेषां प्राचीनता प्रदृश्यतऽस्माभिः । वर्तमानरामायणे उत्तरकाण्डस्य अर्वाचीनता प्रक्षिप्तता च प्रतिपादिता याकोबीप्रभृतिभिः बहुभिरैतिहासिकैः, अतस्तदंशमपहायैवात्र तत्त्वानि संगृह्यन्ते।

महर्षिवाल्मीकिकृतं रामायणन्तु लक्षश्लोकात्मकात् महाभारतात् प्राचीनतरमित्यत्र प्रायेण सर्वे ऐतिहासिकाः ऐकमत्यमवलम्बन्ते ।

एतेषां मतानि निपुणं निरीक्ष्य आचार्याः बलदेवोपाध्यायाः कथयन्ति यत्- “वर्तमानं महाभारतं न केवलं रामाख्यानेन युक्तमपि तु वाल्मीकीयरामायणमपि सुतरां परिचिनोति। रामायणे महाभारतीयानां पात्राणामुल्लेखः क्वचिदपि न प्राप्यते, परं वनपर्वणि महाभारते रामोपाख्यानं वाल्मीकिप्रोक्तस्य रामाख्यानस्य संक्षिप्तसंस्करणमस्ति। रामचन्द्रेण सम्बद्धानि स्थानानि महाभारते तीर्थानि प्रतिपादितानि सन्ति। शृङ्गवेरपुरं, गोप्रतारश्च वनपर्वणि तीर्थत्वेन प्रतिपादिते स्तः। एवं महाभारतस्य वर्तमानस्वरूपप्राप्तेः पूर्व रामायणं प्राचीनग्रन्थरूपेण प्रमाणितमासीत्। महाभारतस्य वर्तमानं स्वरूपं ख्रीष्टाब्दस्य आरम्भे सञ्जातम्। अतः रामायणस्य रचना एतस्मात् पूर्वमवश्यमेव भूतं स्यात्।”

त एवाचार्याः रामायणस्य रचनाकालं प्रतिपादयन्तः कथयन्ति यत्- “एभिः प्रमाणैः सिद्ध्यति यत् रामायणस्य रचना बुद्धस्याविर्भावात्पूर्वमेवाभूत्। अर्थात् रामायणस्य ख्रीष्टाब्दात् पञ्चशताब्दपूर्ववर्तित्वस्वीकरणं न्याय्यमिति । 

एतस्मिन् वाल्मीकीयरामायणे न केवलं द्वादशराशीनामुल्लेखः, अपि तु जन्मलग्नं विनिश्चित्य भावानामपि गणनायाः सङ्केतः प्राप्यते। ग्रहाणामुच्चैः नीचैश्च स्थानेषु अवस्थानमपि तत्र गणितम् । 

किं च नक्षत्रदेवताविचारः लग्ने ग्रहयोः युतिश्च तत्र स्पष्टं निरूपितम्। रामादीनां भातृणां  जन्मकालवर्णने 

ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः।

ततश्च दादशे मासे चैत्रे नावमिके तिथौ ॥८॥

नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु । 

ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ।।१।।

पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः। 

सार्प जात तु सौमित्री कुलीरऽभ्युदिते रवी ॥१७॥

बालकाण्डम् सर्गः १८

रामचन्द्रस्य जन्मकाले लग्ने चन्द्रमसि स्थिते जन्मराशिः कर्कः। अदितिदैवत्ये पुनर्वसुनक्षत्रे चतुर्थचरणे चन्द्रः कर्कराशौ भवतीति विचारोऽपि अत्र दृश्यते । एवं रामस्य राज्याभिषेकोपक्रमे अयोध्याकाण्डे दशरथोक्तौ 

उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि। 

लग्ने कर्कटके प्राप्ते जन्म रामस्य स्थिते ॥१३॥

अभिषेकाय रामस्य द्विजेन्द्ररुपकल्पितम् ।।१४।।अयोध्या. सर्गः १५ 

अतः जन्मलग्ने गोचरे सति राज्याभिषेकमुहूर्तः शुभ इति प्रतिपादितम्। अथ च तत्रैवायोध्याकाण्डे जन्मनक्षत्रे अर्थात् चन्द्रमसः राशौ सूर्यमङ्गलराहूणां युतिः गोचरीभूता मृत्युयोग सूचयतीति दशरथस्य मृत्युप्रसङ्गे उक्तम् –

अवष्टब्धं च मे राम नक्षत्रं दारुणग्रहैः।

आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ॥१८॥

प्रायेण च निमित्तानामीशानां समुद्भवे। 

राजा हि मृत्युमाप्नोति घोराथापदमृच्छति ॥१५॥

अयोध्या. सर्गः।

रामायणे ग्रहाणां मित्रताशत्रुताविचारश्च उपलभ्यते। रामलक्ष्मणयोः वनगमनप्रसङ्गे उपमाच्छलेन आदिकविनोक्तम् 

ततः सुमन्त्रेण गुहेन चैव समीयतुः राजसुतावरण्ये।

दिवाकरीव निशाकरश्च यथाम्बरे शक्रहस्पतिभ्याम् ||४१ ||अयोध्या. सर्गः99

अत्र रामलक्ष्मणौ सूर्यचन्द्राभ्यामुपमितौ तेन उभयोः नैसर्गिकमित्रता सूचिता। गुहसुमन्त्रौ च क्रमेण बृहस्पतिशुक्राभ्यामुपमितौ। अनयोः परस्पर मित्रताऽभावेऽपि कार्यमेकमुद्दिश्य युतिः सङ्केतिता। 

अथ च किष्किन्धाकाण्डे बुधमङ्गलयोः शत्रुतां निरूप्य तयोर्युद्धमुपमानत्वेन वर्णयति- 

ततः सुतुमुलं युद्धं बालिसुग्रीवयोरभूत्।। 

गगने ग्रहयो घोरं बुधाङ्गारकयोरिव ॥१७॥ किष्किन्धा. सर्गः १२

 बुधः चन्द्रमसः पुत्रः। रोहिणी च चन्द्रमसः प्रिया। तेन बुधः रोहिण्याः पुत्रः सन् रोहिणी कामयमानः अगम्यगन्ता कल्पितः इति ज्योतिःशास्त्रे प्रसिद्धम्। एतत् वर्णितम्महर्षिणा सीताहरणप्रसङ्गे 

अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः। 

जग्राह रावण: सीतां बुधः खे रोहिणीमिव ।।१६।।अरण्य. सर्ग:४१

रोहिणीचन्द्रमसोः सम्बन्धन्तु सीतारामयोः प्रसङ्गे बहुधा वर्णयति वाल्मीकि: 

यथा शची महाभागा शक्रं समुपतिष्ठति । 

अरुन्धती वसिष्ठश्च रोहिणी शशिनं यथा ॥१०॥ सुन्दर. सर्गः २४

Pages: 1 2 3

Comments are closed, but trackbacks and pingbacks are open.