प्रार्थना

दोनों हाथों में फल एवं फूल लेकर निम्नलिखित स्तोत्र से प्रार्थना करें

सङ्कटनाशनगणेशस्तोत्रम्

नारद उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।

भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ।। 1 । ।

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।

तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् । । 2 ।।

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।

सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् । । 3 ।।

नवमं भालचन्द्रं च दशमं तु विनायकम् ।

एकादशं गणपतिं द्वादशं तु गजाननम् । ।4।।

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।

न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो।।5।।

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।

पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ।।6।।

जपेद्गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् ।

संवत्सरेण सिद्धिं च लभते नात्र संशयः ।।7।।

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ।।8।। 

प्रार्थना 02

(स्कन्दपुराण काशीखण्ड, अध्याय 57, पृष्ठ 241)

श्रीकण्ठ उवाच

जय विघ्नकृतामाद्य भक्तनिर्विघ्नकारक ।

अविघ्नविघ्नशमनमहाविघ्नैकविघ्नकृत् । । 17।।

जय सर्वगणाधीश जय सर्वगणाग्रणीः ।

गणप्रणतपादाब्जगणनातीतसद्गुण । । 18।।

जय सर्वग सर्वेश सर्वबुद्ध्यैकशेवधे ।

सर्वमायाप्रपञ्चज्ञसर्वकर्माग्रपूजित । । 19।।

सर्वमङ्गलमाङ्गल्य जय त्वं सर्वमङ्गल । 

अमङ्गलोपशमन महामङ्गलहेतुक।।20।।

जय सृष्टिकृतप्रज्ञ जय स्थितिकृतानत ।

जय संहृतिकृत् स्तुत्य जय सत्कर्मसिद्धिद ।।21 । ।

सिद्धिवन्द्य पदाम्भोजजयसिद्धिविधायक।

सर्वसिद्ध्यैकनिलय महासिद्ध्य॒द्धिसूचक।।22।।

अशेषगुणनिर्माणगुणातीत गुणाग्रणीः ।

परिपूर्णचरित्रार्थ जय त्वं गुणवर्णित । । 23 ।।

जय सर्वबलाधीश बलारातिबलप्रद ।

बलाकोज्वलदन्ताग्र बालाबालपराक्रम ।।24।। 

अनन्तमहिमाधार धराधरविदारण ।

दन्ताग्रप्रोतदिङ्नाग जय नागविभूषण।।25।।

ये त्वां नमन्ति करुणामय दिव्यमूर्ते

सर्वेनसामपि भुवो भुवि भुक्तिभाजः ।

तेषां सदैव हरसीह महोपसर्गान्

स्वर्गापवर्गमपि संप्रददासि तेभ्यः । । 26।। 

ये विघ्नराज भवता करुणाकटाक्षैः

संप्रेक्षिताः क्षितितलेक्षणमात्रमत्र ।

तेषां क्षयन्ति सकलान्यपि किल्बिषाणि

लक्ष्मीः कटाक्षयति तान् पुरुषोत्तमान् हि ।।27।। 

ये त्वां स्तुवंति नतविघ्नविघातदक्ष

दाक्षयणीहृदयपंकजतिग्मरश्मे।।

श्रूयंत एव त इह प्रथितानचित्रं

चित्रं तदत्र गणपाय दहो त एव।।28।।

ये शीलयंति सततं भवतोंऽघ्रियुग्म

ते पुत्रपौत्रधनधान्यसमृद्धिभाजः।।

संशीलितांघ्रिकमलाबहुभृत्यवगै 

भूपालभोग्यकमलां विमलां लभंते।।29।।

त्वं कारणं परमकारणकारणानां

वेद्योऽसि वेदविदुषां सततं त्वमेकः।।

त्वं मार्गणीयमसि किंचनमूलवाचा

वाचामगोचरचराचरदिव्यमूर्ते।।30।।

वेदा विदंति न यथार्थतया भवंतं

ब्रह्मादयोऽपि न चराचरसूत्रधार।।

त्वं हंसि पासि विदधासि समस्तमेकः

कस्ते स्तुतिव्यतिकरो मनसाप्यगम्य।।31।।

त्वं दुष्टदृष्टिविशिखैर्निहतात्रिहन्सि

दैत्यान्पुरांधकजलं धरमुख्यकांश्च।।

कस्यास्ति शक्तिरिह यस्त्वदृतेपितुच्छं

वांछेद्विधातुमिहसिद्धिदकार्यजातम्।।32।। 

अन्वेषणे दुण्ढिरयं प्रथितोऽस्ति धातुः 

सर्वार्थढुंढिततया तव ढुंढिनाम।।

काशीप्रवेशमपि को लभतेऽत्र देही

तोषं विना तव विनायक ढुंढिराज।।33।।

ढुंढे प्रणम्य पुरतस्तव पादपद्मं

यो मां नमस्यति पुमानिह काशिवासी।।

तत्कर्णमूलमधिगम्य पुरा दिशामि

तत्किंचिदत्र न पुनर्भवतास्ति येन।।34।।

स्नात्वा नरः प्रथमतो मणिकर्णिकाया

मुद्धूलितांघ्रियुगलस्तु सचैलमाशु।। 

देवर्षिमानवपितृनपि तर्पयित्वा

ज्ञानोदतीर्थमभिलभ्य भजेत्ततस्त्वाम्।।35।।

सामोदमोदकभरैर्वरधूपदीपै-

र्माल्यैः सुगंधबहुलैरनुलेपनैश्च।।

संप्रीण्य काशिनगरीफलदानदक्षं

प्रोक्त्वाथ मां क इह सिध्यति नैव ढुंढे।।36।।

तीर्थांतराणि च ततः क्रमवर्जितोऽपि

संसाधयन्निह भवत्करुणाकटाक्षैः।।

दूरीकृतस्वहितघात्युपसर्गवर्गो

ढुंढे लभेदविकलं फलमत्र काश्याम्।।37।।

यः प्रत्यहं नमति ढुंढिविनायकं त्वां

काश्यां प्रगे प्रतिहताखिलविघ्नसंघः।।

नो तस्य जातु जगतीतलवर्तिवस्तु

दुष्प्रापमत्र च परत्र च किंचनापि।।38।।

यो नाम ते जपति ढुंढिविनायकस्य

तं वै जपंत्यनुदिनं हृदि योष्टसिद्धौ।। 

भोगान्विभुज्य विविधान् विबुधोपभोग्या

निर्वाणया कमलया व्रियते स चान्ते।।39।। 

दूरस्थितोऽप्यहरहस्तव पादपीठं

यः संस्मरेत् सकलसिद्धिद ढुंढिराज।।

काशीस्थितेरविकलं सफलं लभेत

नैवान्यथा न वितथा मम वाक् कदाचित्।।40।।

जाने विध्नानसंख्यातान् विनिहंतुमनेकधा।

क्षेत्रस्यास्य महाभाग नानारूपैरिहस्थितः।।41।।

यानि यानि च रूपाणि यत्र यत्र च तेनघ।।

तानि तत्र प्रवक्ष्यामिशृण्वंत्वेते दिवौकसः।।42।

प्रथमं ढुंढिराजोसि मम दक्षिणतो मनाक्।। 

आढुंढयसर्वभक्तभ्यः सर्वार्थान् संप्रयच्छसि।।43।।

अंगारवासरवतीमिह यैश्चतुर्थीं

संप्राप्य मोदकभरैः परिमोदवाद्भिः।।

पूजा व्यधायि विविधा तव गंधमाल्यै-

स्तानत्र पुत्र विदधामि गणान् गणेश।।44।।

ये त्वामिह प्रतिचतुर्थिसमर्चयंति

ढुंढे विगाढमतयः कृतिनस्त एव।।

सर्वापदां शिरसि वामपदं निधाय

सम्यग्गजानन गजाननतां लभते।।45।।

इति स्कन्दपुराणे काशीखण्डे ढुंढिराजमाहात्म्ये गणपतिस्तवः समाप्तः।।

प्रार्थना 03

विघ्नेश्वराय वरदाय सुरप्रियाय लंबोदराय सकलपाय जगद्धिताय। 

नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमोनमस्ते।।1।।

भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय।

विद्याधराय विकटाय च वामनाय भक्तप्रसत्रवरदाय नमोनमस्ते।।2।।

त्वां विघ्नशत्रुदल नेति च सुंदरेति भक्तप्रियेति सुखदेति वरप्रदेति।

विद्याप्रदेत्यघरेति च ये स्तुवंति तेभ्यो गणेश वरदो भवनित्यमेव।।। 

अनया पूजया सिद्धिबुद्धिसहितमहागणतिः सांगः सपरिवारः प्रीयताम्।

(आगे की पूजा के लिए पृष्ठसंख्या 3 पर जायें)

Pages: 1 2 3 4 5

Leave a Reply

Your email address will not be published. Required fields are marked *