तथा च सीतां प्रति हनूमतः उक्तावपि
पृष्ठमारोह मे देवि मा विकाक्षस्व शोभने।
योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ॥३६॥
कथयन्तीव शशिना सङ्गमिष्यसि रोहिणी ॥३७॥ सुन्दर.सर्गः ३७
अनेकत्र सीतायाः उपमानत्वे रोहिणी वर्णिता
किं नु चन्द्रमसा हीना पतिता विबुधालयात् ।
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणाधिका ॥७॥सुन्दर. सर्गः ३३
अरण्यकाण्डेऽपि शूर्पणखा सीतां हन्तुं तां प्रति धावति। तत्र कविः उपमिमीते
इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा।
अभ्यगच्छत्सुसंक्रुद्धा महोल्का रोहिणीमिव ॥१७॥अरण्य. सर्गः १८
रामायणे शुभाशुभमुहूर्तानामपि चर्चा प्राप्यते। यद्यपि मुहूर्तशब्दस्य प्रयोगः सामान्यतः अल्पकालाभिव्यञ्जकत्वेन कृतः, यथा- स मुहूर्तमिव ध्यात्वा, इत्यादिषु, किन्तु दिनमानस्य पञ्चदशविभागात्मकोऽपि मुहूर्तशब्दः बहुषु स्थलेषु प्रयुक्तः। मुहूर्तशब्देन ज्योतिःशास्त्रे दिनस्य रात्रेर्वा पञ्चदशो विभागः उच्यते।
यथोक्तं रत्नमालायाम्- “दिनस्य यः पञ्चदशो विभागो रात्रेस्तथा तद्धि मुहूर्तमान”मिति । एतेषां नामानि सन्ति
रुद्रः श्वेतश्च मैत्रश्च तथा गौरभटस्ततः।
सावित्री विजयश्चैव गन्धर्वः कुतपस्तथा ॥
रौहिणोऽथ विरश्चश्च सोमोऽथ निर्ऋतिस्तथा।
माहेन्द्रो वरुणश्चैव भटः पञ्चदशः स्मृतः॥
अहो मुहूर्ता विख्याता वश पथ च सर्वदा।। इति।
तेषां देवताः अपि मुहूर्तचिन्तामणी उक्ताः
गिरिशभुजगमित्राः पित्र्यवस्वम्बु विश्वे ऽभिजिवथ च विधातापीन्द्र इन्द्रानलौ च।
निऋतिरुदकनाथोऽप्यर्यमाऽथो भगः स्युः क्रमश इह मुहूर्ताः वासरे बाणचन्द्राः॥
एवं दिने तृतीयो मुहूर्तः मित्रदैवत्यः मैत्रः कथ्यते। नदीसंतरणप्रसङ्गे अस्य नामोल्लेखः महर्षिणा कृतः।
सा पुण्या ध्वजिनी गङ्गा दाशैः संतारिता स्वयम्।
मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् ॥२१॥अयोध्या. सर्गः ८१
अथ चान्वर्थके विन्दमुहूर्ते नष्टवस्तुनः पुनर्लाभं विचारयति-
येनायाति मुहूर्तेन सीतामादाय रावणः।
विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ॥१२॥
विन्दो नाम मुहूर्ताऽसौ न च काकुत्स्थ सोऽबुधत् ।
झषवद् बडिशं गृह्य क्षिप्रमेव विनश्यति ॥१३॥अयोध्या. सर्गः ६८
नूतनगृहे प्रवेशमुहूर्त विचारयन् यद् बूते श्रीपतिः- “शुभः प्रवेशो मृदुभिर्ध्रुवाख्यै”रिति तदेव रामायणेऽपि पञ्चवटीवने रामादीनां गृहप्रवेशप्रसङ्गेप्युक्तम् । रामः लक्ष्मणं निर्दिशति
ऐणेयं श्रपयस्वैतच्छालां यक्ष्यामहे वयम् ॥२५॥
त्वर सौम्यमुहूर्तोऽयं ध्रुवश्च दिवसो ह्ययम् ।।२६/क ||अयोध्या. सर्गः ५६
सीतारामयोः विवाहप्रसङ्गे शुभमुहूर्त विचारयति
मघा ह्यद्य महाबाहो तृतीयदिवसे प्रभो।
फल्गुन्यामुत्तरे राजस्तस्मिन् वैवाहिकं कुरु॥
रामलक्ष्मणयोरर्थे दानं कार्य सुखोदयम् ।।२४ ||बाल. सर्गः ७१
युद्धार्थं प्रस्थितानां राज्ञां कृते शुभमुहूर्तस्यावश्यकताऽपि प्रतिपादिता-
एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम्।
मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥३४॥युद्ध. सर्गः३
तत्रैव युद्धयात्रायां शुभमुहूर्त एवमुक्तः
उत्तराफल्गुनी ह्यद्य श्वस्तु हस्तेन योज्यते।
अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ॥१५॥युद्ध. सर्गः४
अशोकवाटिकायां दिने दिने क्षीयमाणां सीता वर्णयन् अनध्यायमुहूर्तस्य सङ्केतं करोति महर्षिः
सा प्रकृत्यैव तन्वङ्गी त्वद्धियोगाच्च कर्शिता।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ॥३१॥सुन्दर. सर्गः ५१
श्रीराम प्रति हनूमतोऽस्यामुक्तौ प्रतिपत्तिथौ पाठे विद्या क्षीयते इति विमर्शं मत्वा अनध्यायः अधुनाऽपि प्रवर्तते क्वचित् ।
वास्तुभूमेः चयनविमर्श ‘पूर्वप्लवो वृद्धिकरी धनदश्चोत्तरप्लवः’ इति सिद्धान्तः वास्तुशास्त्र प्रसिद्धः। तथा च
दक्षिणे पश्चिमे चैव नैर्ऋते वायुकोणके।
एभिरुच्चैर्भवत्स्थानो गजपृष्ठो विधीयते ।
गजपृष्ठे भवेद् वासः सलक्ष्मीर्धनवान्भवेत् ।
आयुर्वृद्धिकरो नित्यं जायते नात्र संशयः‘ इति ।”
रामायणेऽपि रामः तदेव कथयति
प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति।
पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति ॥१२॥ किष्किन्धा. सर्गः २७
रामायणे युद्धकाण्डे अष्टाविंशतितमे सर्गे श्लोकाङ्क ३३ तः ३७ पर्यन्तम् रामानुगन्तॄणां सैन्यानां संख्यानिरूपणप्रसङ्गे शतेन गुणिताः सर्वाः संख्याः अभिहिताः। एतासु अन्तिमा त्रयोविंशत्यात्मिका गृहीता। यद्यपि एताः केवलं सैन्यगणनायां प्रयुक्ताः सन्ति तथाप्यत्रोक्तानां वैज्ञानिकता विपुलता च गणितज्योतिःशास्त्रीयतां साधयति। ताः घाताङ्कवासनया आधुनिकरीत्या सुबोधाय प्रदर्श्यन्ते

शकुनशास्त्रीयतत्त्वानि रामायणे अतिशयेनोपलभ्यन्ते। क्वचित्तु पृथक् सर्ग एव शकुनविमर्शमधिकृत्य महर्षिणा प्रणीतः। यथा अरण्यकाण्डस्य त्रयोविंशे सर्गेऽशुभानि, सुन्दरकाण्डस्य एकोनत्रिंशे सर्गे शुभानि शकुनानि विशदरूपेण वर्णितानि सन्ति । युद्धकाण्डस्य त्रयोविंशे सर्गे आरम्भात् एकादशश्लोकपर्यन्तम् चतुर्थसर्गेऽष्टौ श्लोकाः पुनः तत्रैव एकचत्वारिंशे सगै एकादशश्लोकात् विशश्लोकपर्यन्तमशुभानि शकुनानि कथितानि। एभिः रामायणस्य रचनाकाले शकुनविचारस्य बद्धमूलताऽपि सुतरामवगम्यते । अस्यावश्यफलदत्वमपि रामायणे स्पष्टमाकूतम्
निमित्तं लक्षणं स्वप्नं शकुनिस्वरदर्शनम्।
अवश्यं सुखदुःखेषु नराणां परिदृश्यते ॥२॥अरण्य. सर्गः ५२
Comments are closed, but trackbacks and pingbacks are open.