शुभशकुनेषु दक्षिणभागे मृगगमनम् (बाल. ७४/१३) वंचुलकपक्षिणो रवः (अयो. ६१/२३) स्त्रीणां वामनयनस्फुरणम् (सुन्दर. २१/२). स्त्रीणां वामबाहुस्फुरणम् (सुन्दर. २१/३) स्त्रीणामूरुस्पन्दनम् (सुन्दर २७/४) स्त्रीणां वस्त्रपरिभंशनम् (सुन्दर. २१/५) इत्यादीनि उक्तानि सन्ति । तथा चाशुभेषु पक्षिणां घोररवः (बाल. ७/१२) पुरुषस्य बाहुकम्पनम् (अयो. ६९/२१) गृधानां रवः (अरण्य. ५७/४) स्वर्णवृक्षदर्शनम् (अरण्य, ४७/३८, ५३/१९, ६/११), कलुषितवायुवेगः, पर्वतशिखरकम्पः, वृक्षपतनम् रक्तवर्णा वृष्टिः, अतिशयेन रक्तिममण्डिता सन्ध्या, सूर्यमण्डलादग्निवृष्टिः, मृगपक्षिणामार्तस्वरः सूर्योन्मुखानां मृगपक्षिणां रवः, चन्द्रमसो म्लानता, सूर्ये नील चिह्नम्, काकश्येनगृध्राणां नीचैः पतनम्, शिवायाः रोदनम् (अरण्य. सर्गः २३) इत्यादीज्युक्तानि सन्ति। रामायणे शकुनमित्यर्थे सर्वत्र निमित्तमिति शब्दः प्राप्यते, यथा “निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च” (अरण्य ५७/४) शुभां निमित्तानि शुभानि भेजिरे (सुन्दर. २१/१)। एतदतिरिक्तमेकस्मिन् स्थले (अरण्य. ५२/२) प्रागुक्ते शकुने पक्षिणां स्वरेण शुभाशुभपरिज्ञानमुक्तम् । एवं प्रतीयते यत् रामायणकाले निमित्तशास्त्रं शकुनिस्वरदर्शनशास्त्रञ्च पृथक् आस्ताम् । पश्चाच्चोभयोः कृते शकुनमित्युपलक्षणपरं पदं प्रयुक्तम् । यच्च शास्त्रं ज्योतिषि पञ्चस्कन्धात्मके परिगृहीतम्। 

अरण्यकाण्डस्य पूर्वोक्त एव श्लोके ‘लक्षणमिति’ पदमुक्तम्। प्रतीयते यदिदं पदं सामुद्रिकशास्त्र सङ्केतयति। शरीरावयवाना दर्शनेन शुभाशुभज्ञानात्मक शास्त्रमिदं प्राचीनैराचीनैश्च तत्त्वविद्धिः निपुणं परीक्षितम्। हस्तरेखाविचारोऽपि अस्यैव व्याप्यभूतः। रामायणे कतिपयेषु स्थलेषु अस्य लक्षणशास्त्रस्य उल्लेखोऽस्ति। बालकाण्डस्य मूलरामायणाख्ये प्रथमसर्गे नारदोक्त्या रामचन्द्रवर्णने पुरुषस्य शुभलक्षणान्युक्तानि- . 

विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥७॥
महोरस्को महेष्वासो गूढजत्रुररिन्दमः। 
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१०॥
समः समविभक्ताः स्निग्धवर्णः प्रतापवान्। 
पीनवक्षा विशालाक्षी लक्ष्मीवायुभलक्षणः॥११ ||बाल. सर्ग.१

एवं च रक्षसामपि रूपवर्णने समापतिता विचित्रता लक्षणशास्त्रविशा विवेचनीया अनुसन्धेया च प्रतीयते। 

रामायणे महोत्पातवर्णनमपि अनल्पमुपस्थापितम्। रोहिण्यामुल्काप्रहारः (अरण्य. १/१७) सनिर्घातदिवोल्कापातः (अयो. ४/१७), वज्रपातः, दिग्दाहः इत्यादयो महोत्पाताश्च अशुभनिमित्ततया वर्णिताः, यथा खररामयोः युद्धकाले 

जग्राह सूर्य स्वर्भानुरपर्वणि महाग्रहः।
प्रवाति मारुतःशीघ्रं निष्प्रभोऽभूदिवाकरः ॥१२॥ 
उत्पेतुश्च विना रात्रिंताराः खयोतसप्रभाः॥१३/क। अरण्य. सर्गः २३

आकाशे ग्रहनक्षत्राणां निर्दीप्त्या दीप्त्या च शुभाशुभज्ञानस्य एका विचारणा रामायणे दृश्यते। युद्धकाण्डस्य चतुर्थसर्गे निर्ऋतदैवत्यं पूर्वाषाढनक्षत्रं म्लानं वीक्ष्य राक्षसानां विनाशमथ च पैतामहं रोहिणीनक्षत्रं, त्रिशङ्ख, सप्तर्षिमण्डलं, सूर्यदैवत्यं ज्येष्ठानक्षत्रं च प्रदीप्तानि वीक्ष्य रामानुगमनकर्तृणामभ्युदयो निरूपितः। तत्र अष्टौ श्लोकाः ज्योतिःशास्त्रपरकाः गूढमनुसन्धेयाः। एवमेव युद्धकाण्डस्य त्र्युत्तरशततमे सर्गे रामरावणयोः प्रत्यक्षयुद्धे रूपकालङ्कारमुखेन ग्रहेषु परस्परप्रहारवर्णनं कृतम्, तदपि सिद्धान्तज्योतिःशास्त्रष्ट्या सम्यगनुसन्धेयम्। तदस्माभिः सम्यक् नावगतम् । 

पञ्चस्कन्धात्मकाज्ज्योतिषो बहिर्भूतोऽपि स्वप्नविचारः अष्टफलाफल ज्ञानोपकारकत्वात रामायणे निमित्तादिषु चतुर्षु (अरण्य ५२/२) स्वप्नस्यापि उल्लेखत्वात् अत्रास्यापि विवेचनं क्रियते। अयं विमर्शः रामायणे विशदं प्राप्यते। अयोध्याकाण्डस्य ऊनसप्ततितमे सर्गे भरतेन वर्णितं दुःस्वप्नं महत्त्वपूर्णमस्ति। 

तत्र स कथयति यत् मलिनं, रक्तकेशिनं, पर्वतानात् पतन्तं, गोमये हदे प्लवमानं, तैलमञ्जलिना पिबन्तं, तिलौदनं भुजानं, मुहर्मुहुर्हसन्तं, तैलाभ्यक्ताङ्ग, तैलेऽवगाहमानं पितरं स्वप्नेऽहमद्राक्षम्। तथा च शुष्कं सागरं, भुवि निपतितं चन्द्रमसं, जगतीं तमसोपरुद्धां, बाह्यस्य गजस्य शकलीभूतं विषाणं, दिग्दाह, विदीर्णा पृथ्वी, शुष्कान द्वमान्, विध्वस्तान् पर्वताँश्च अहमद्राक्षम्। स्वप्ने मया कृष्णलौहमये पीठे कृष्णवासा राजा कृष्णपिङ्गलाभिः स्त्रीभिः सन्ताडितो दृष्टः। स्वप्ने रक्तमाल्यानुलेपनो धर्मात्मा त्वरमाणो दृष्टः। सः गर्दभयुक्तेन रथेन दक्षिणा दिशमगच्छत् । राजानं तु काचित् रक्तवासिनी विकृतानना राक्षसी प्रकर्षन्ती दृष्टा। तथा चान्ते 

एवमेतन्मया दृष्टमिमां रात्रिं भयावहाम्। 
अहं रामोऽथवा राजा लक्ष्मणो वा मरिष्यति ॥१७॥
नरो यानेन यः स्वप्ने खरयुक्तेन याति हि। 
अचिरात्तस्य धूमाग्रं चितायां संप्रदृश्यते ॥१८॥अयोध्या. सर्गः६१

अथापि 

“स्वप्नो मयायं विकृतोऽद्यष्टः शाखामृगःशास्त्रगणैनिषिद्धः॥”सुन्दर. सर्गः३२/9 

नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् । 

न शवयोऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ॥२२॥सुन्दर. सर्गः ३४

इत्यादिषु स्थलेषु स्वप्नविचारो रामायणे प्राप्यते। एवमल्पैरव शब्दैः वाल्मीकीयरामायणे ज्योतिस्तत्त्वानि संगृहीतानीति तत्र विद्धांसः प्रमाणम्। 

सन्दर्भ सङ्केतः 

  • १. भारतीय ज्योतिष-डा. नेमिचन्द्र शास्त्री । भारतीय ज्ञानपीठ प्रकाशन ।  संस्करण १९१८, पृष्ठ सं. 27
  • 2. आकाश दर्शन : गुणाकर मुले, राजकमल प्रकाशन, दिल्ली ३.
  • 3. संस्कृत साहित्य का इतिहास : आचार्य बलदेव उपाध्याय, संस्करण १९८७ पृष्ठ २४
  • ४. तत्रैव पृष्ठ-२८ ..
  • 5. तत्रैव पृष्ठ-२७ ..
  • 6. मुहूर्तचिन्तामणिः, विवाह प्रकरणम् श्लोकः-५२ ७.
  • 7. म. म. पशुपतिकृता व्यवहाररत्नावली । हस्तलिखिता । लेखकस्याधिकारे उपलब्धा। 

आकरग्रन्थः- वाल्मीकीयरामायणम्। क्षेमराज-श्री कृष्णदासश्रेष्ठिना स्वकीये श्रीवेंकटेश्वर (स्टीम) मुद्रणालये प्रकाशितम् । ब्रह्मपत्रात्मकम् । १९२३ ई. 

Pages: 1 2 3

Comments are closed, but trackbacks and pingbacks are open.