यहाँ भगवान् गणेश की पूजा विधि दी जा रही है। यह ऐसे लोगों के लिए है, जो अपने घर में आस्थापूर्वक पूजा करने की इच्छा रखते हैं। हम यह मानकर चल रहे हैं कि सनातन धर्म के अधिकांश श्रद्धालु मध्यमवर्ग के हैं उऩके साथ अनेक समस्याएँ है, लेकिन ईश्वर के प्रति श्रद्धा की कमी नहीं है। वे पूजा करना चाहते हैं, पर उन्हें उचित पुरोहित नहीं मिल पाते हैं। यदि मिल भी जाते हैं तो उनकी दक्षिणा की माँग इतनी होती है कि श्रद्धालु असमर्थ हो जाते हैं।

हमें यह मानकर चलना चाहिए कि आगम-पद्धति में यदि हम स्वयं पूजा करने में सक्षम हैं तो पुरोहित की अनिवार्यता नहीं है। यह छूट केवल आगम-पद्धति में है। यज्ञ आदि वैदिक कर्मों में नहीं। भगवान् की पूजा आगम-पद्धति से होती है अतः हमें प्रयास करना चाहिए कि हम विना पुरोहित का स्वयं अपने घर में पुस्तक आदि देखकर पूजा कर लें।

[bws_pdfprint display=’print’]

सामग्री- सूची देखें

पूजा के अंत में स्वेच्छा से किसी भी विद्वान् ब्राह्मण को दक्षिणा की राशि भेज दें।

यहाँ पद्धति में ध्यान रखा गया है कि विना पुरोहित की पूजा कैसे की जाये।

सब से पहले सारी सामग्री की व्यवस्था कर सामने गणेशजी की प्रतिमा अथवा फोटो रख लें. स्नानादि से निवृत्त होकर आसन पर पूर्व मुँह कर बैठ जायें। प्रतिदिन आप जो पूजा करते हों, उस पूजा को सबसे पहले सम्पन्न कर लें।

सामने में एक पत्तल अथवा पीतल की थाली रखें। पूजा के समय जल इसी थाली में गिराये जायेंगे। इस थाली का नाम पतन पात्र है। थाली न हो तो एक पत्तल भी रख सकते हैं।

संकल्प

हाथ में कुश, तिल जल अथवा पान का पत्ता, सुपारी, फूल, अक्षत तथा कुछ रुपये लेकर –

श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वितीये परार्धे विष्णुपदे श्रीश्‍वेत-वाराहकल्पे वैवस्वत मन्वंतरे अष्टाविंशति-तमे युगे युगचतुष्के कलियुगे प्रथम चरणे जंबुद्वीपे भरतवर्षे भरतखंडे आर्यावर्तदेशे (अपने स्थान का नाम लें)  बौद्धावतारे अस्मिन्वर्तमाने शालिवाहन शके व्यावहारिके ….. नाम संवत्सरे, ….अयने …..ऋतौ, …..मासे, …..पक्षे, ……. तिथौ, …….वासरे, ….. नक्षत्रे, …..योगे, …… करणे, …….स्थिते वर्तमाने श्रीचंद्रे, …….स्थिते वर्तमाने श्रीसूर्ये, ….स्थिते वर्तमाने श्रीदेवगुरौ, ……स्थिते वर्तमाने श्रीशनैश्‍चरौ शेषेषु सर्वग्रहेषु यथायथं राशिस्थानानि स्थितेषु एवंगुणविशेषेणाविशिष्टायां शुभपुण्यतिथौ. ………………(अपना नाम) मम सपरिवारस्य सर्वबाधाविनिर्मुक्तिपूर्वक सकल कामना सिद्ध्यर्थं गणेशपूजनमहं करिष्ये।

(whatsapp पर व्यक्तिगत रूप से सम्पर्क करने पर आपके लिए संकल्प भेजा जा सकता है। इसके लिए आपको अपना नाम, शहर का नाम, पूजा का दिन तथा कामना लिखकर भेजना होगा।)

ध्यान

(हाथों में फूल लेकर अंजलि बाँधकर)

गजाननं भूतगणाधिसेवितं कपित्थजम्बूफलचारुभक्षणम् ।

उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ।। 1 । ।

लम्बोदरं परमसुन्दरमेकदन्तं पीताम्बरं त्रिनयनं परमं पवित्रम् ।

उद्यद्दिवाकरनिभोज्ज्वलकान्तिकान्तं विघ्नेश्वरं सकलविघ्नहरं नमामि ।।2।।

रक्तो रक्ताङ्गरागांशुककुसुमयुतस्तुन्दिलश्चन्द्रमौलिः

नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरान्तनासः ।

हस्ताग्राक्लृप्तपाशाङ्कुशरदवरदो नागवक्त्रोऽहिभूषो

देवः पद्मासनो वो भवतु नतसुरो भूतये विघ्नराजः।।3।। (प्रपञ्चसार 16 149)

सिन्दूराभं त्रिनेत्रं पृथुतरजठरं हस्तपद्मैर्दधानं

दन्तं पाशाङ्कुशेष्टान्युरुकरविलसद्बीजपूराभिरामम्।

बालेन्दुज्योतिमौलिं करपतिवदनं नादपूर्वार्द्धगण्डं

भोगीन्द्राबद्धभूषं भजत गणपतिं रक्तवस्त्राङ्गरागम्। (म. म. गोविन्दठक्कुरोद्धृतम् पूजाप्रदीपे) 

ओंकारसन्निभमिवाननमिन्दुभालं मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् । 

लम्बोदरं कलचतुर्भुजमादिदेवं ध्यायेन्महागणपतिं मतिसिद्धकान्तम् । ।6।।

खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं 

विघ्नेशं मधुगन्धलुब्धमधुपव्यालोलगण्डस्थलं ।

दन्ताघातविदारिताहितजनं सिन्दूरशोभाकरं

वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ।।5।।

प्रमथाधिपो गजमुखः प्रलम्बजठरः कुठारधारी स्यात् ।

एकविषाणो विभ्रन्मूलककन्दं सुनीलदलकन्दम्।। (बृहत्संहिता 58 158)

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । 

अभयं वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।

रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।

रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् । ।

भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।

आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् । ।

एवं ध्यायति यो नित्यं स योगी योगिनां वरः ।

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः । (गणपत्युपनिषद्)

श्वेताङ्गं श्वेतवस्त्रं सितकुसुमगणैः पूजितं श्वेतगंधैः

क्षीराब्धौ रत्नदीपैः सुरतरुविमले रत्नसिंहासनस्थम्।।

दोर्भिः पाशाङ्कुशेष्टाभयधृतिविशदं चंद्रमौलिं त्रिनेत्रं

ध्यायेच्छांत्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम्।।

इदं ध्यानपुष्पं ॐ गणाधिपतये नमः । 

आवाहन

(हाथों में फूल लेकर अंजलि बाँधकर)

विघ्नविघ्नेश्वरागच्छ विघ्नेत्येव नमस्कृत । 

अविघ्नाय भवान् सम्यक् सदाऽस्माकं भव प्रभो ।। (बौधायनगृह्यसूत्रे आवाहनम्)

विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः । 

गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा। (याज्ञवल्क्य स्मृति)

हे हेरंब त्वमेह्यहि अंबिकात्र्यंबकात्मज।।

सिद्धिबुद्धिपते त्र्यक्ष लक्षलाभ पितुः पितः।।

आवाहयामि पूजार्थं रक्षार्थं च मत क्रतौ।

इहागत्य गृहाण त्वं पूजां क्रतुं च रक्ष मे।

इदमावाहनं ॐ गणाधिपतये नमः ।

आसन

फूल तथा अक्षत लेकर-

अव्यक्तं व्यक्तहेतुं निगमनुततनुः सर्वदेवाधिदेवं

ब्रह्माण्डानामधीशं जगदुदयकरं सर्ववेदान्तवेद्यम् ।

मायातीतं स्ववेद्यं स्थितिविलयकरं सर्वविद्यानिधानं

सर्वेशं सर्वरूपं सकलभयहरं कामदं कान्तरूपम् । ।

स्वर्णसिंहासनं दिव्यं नानारत्नसमन्वितम् ।

समर्पितं मया देव तत्र त्वं समुपाविश ।।

इदमासनं ॐ गणाधिपतये नमः ।

पाद्य

अरघा में जल लेकर

इमा आपः शिवाः शक्तमाः शान्ताः शान्ततमाः पूताः पूततमाः पुण्याः पुण्यतमाः मेध्याः मेध्यतमाः जुष्टा जुष्टतमा अमृता अमृतरसाः पाद्याः अर्ध्या अर्हणीया अभिषेचनीया आचमनीया मार्जनीयाश्च प्रतिगृह्यन्तां प्रतिगृह्णातु भगवान् विनायको विनायकाय नमः । (बौधायनगृह्यसूत्रे पञ्चकर्म)

अर्घ्य 

अर्घ्य:- जल, दूध, कुश का अगला भाग, दही, अक्षत, तिल, जौ एवं सरसो ये आठ पदार्थ मिलाकर अर्घ्य कहलाते हैं। नागेशभट्ट ने दुर्गासप्तशती के पशुपुष्पार्घधूपैश्च इत्यादि की व्याख्या में इसे स्पष्ट किया है- आपः क्षीरकुशाग्राणि दध्यक्षततिलानि च। यवाः सिद्धार्थकाश्चैव ह्यष्टाङ्गोऽर्घः प्रकीर्तितः।। चतुर्धरी टीकाकार ने चन्दन को भी समेटते हुए जल छोड़कर आठ अंग माना है।

अरघा में जल, दूध, कुशा का अगला भाग, दही, अक्षत, तिल, जौ तथा पीला सरसो रखकर अर्घ्य दे-

रौप्यपात्रे स्थितं तोयं गन्धपुष्पफालान्वितम् ।

सहिरण्यं ददाम्यर्घ्यं गृहाण नरनायक।।

एषोऽर्घ्यः भगवते श्रीगणाधिपतये नमः । 

आचमनीयम् –

अरघा में शुद्ध जल लेकर

इदमाचमनीयं भगवते श्रीगणाधिपतये नमः ।

स्नान

मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।

तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम् । । 

आचमनीयम् –

इदमाचमनीयं भगवते श्रीगणाधिपतये नमः ।

पंचामृतस्नान –

(गोदुग्ध, दधि, घृत, मधु, शक्कर)

पयो दधि घृतं गव्यं माक्षिकं शर्करा तथा ।

पञ्चामृतेन स्नपनं गृहाण गणनायक।।

इदं पञ्चामृतं ॐ गणाधिपतये नमः।

गन्धोदकस्नान

मलयाचलसंभूतचन्दनेन समन्वितम् ।

स्नानीयं तव देवेश गृह्यतां सुरसत्तम ।।

शुद्धोदकस्नाने –

ॐ गङ्गा च यमुना चैव गोदावरी सरस्वती। 

कृष्णा च गौतमी वेणी सिप्रा सिन्धुस्तथैव च ।

ताप्ती पयोष्णी रेवा च ताभ्यः स्नानार्थमाहृतम् ।

तोयमेतत् सुखस्पर्शं स्नानार्थं प्रतिगृह्यताम् । ।

स्नानार्थं तव देवेश पवित्रं तोयमुत्तमम् ।

तीर्थेभ्यश्च समानीतं गृहाण परमेश्वर ।।

इदम् शुद्धोदकस्नानीयं भगवते श्रीविनायकाय नमः । 

आचमनम् –

इदमाचमनीयं भगवते श्रीगणाधिपतये नमः ।

वस्त्र-

सर्वभूषाधिके सौम्ये लोकलज्जानिवारिणे ।

तवोपपादिते तुभ्यं वाससी प्रतिगृह्यताम् । ।

रक्तवस्त्रकयुग्मं च देवानामपि दुर्लभम् ।

गृहाण मङ्गलं देव लम्बोदर गजानन ।।

इदं रक्तवस्त्रं भगवते श्रीविनायकाय नमः।

आचमन

इदमाचमनीयं भगवते श्रीगणाधिपतये नमः ।

यज्ञोपवीत 

आरक्तं ब्रह्मसूत्रं च कनकस्योत्तरीयकम् ।

ब्रह्मसूत्रं सोत्तरीयं गृहाण सुरसत्तम । ।

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।

उपवीतं मया दत्तं गृहाण परमेश्वर ।।

इमे सोत्तरीय यज्ञोपवीते भगवते श्रीगणाधिपतये नमः ।

आचमन

इदमाचमनीयं भगवते श्रीगणाधिपतये नमः ।

गन्ध

भूपतये नमो भुवनपतये नमो भूतानां पतये नमः ।

इदं गन्धनं भगवते श्रीगणाधिपतये नमः ।

रक्तचन्दनम्

कुङ्कम 

सिन्दूरम्

अक्षत

पुष्प

सुगन्धानि सुपुष्पाणि जातीकुन्दमुखानि च ।

गृहाण सर्वलोकेश विनायक नमोऽस्तु ते ।।

दूर्वा

दूर्वे ह्यमृतसम्पन्ने शतमूले शताङ्कुरे ।

शतं पातकसंहन्त्री शतमायुष्यवर्द्धिनी।।

एकविंशतिनामभिः दूर्वादलानि च दद्यात् । 

ॐ गणाधिपतये नमः । दूर्वाङ्कुरयुग्मं समर्पयामि ।

ॐ उमापुत्राय नमः । दूर्वाङ्कुरयुग्मं समर्पयामि ।

ॐ अघनाशनाय नमः । दूर्वाङ्कुरयुग्मं समर्पयामि ।

ॐ एकदन्ताय नमः। दूर्वाङ्कुरयुग्मं समर्पयामि ।

ॐ इभवक्त्राय नमः। दूर्वाङ्कुरयुग्मं समर्पयामि ।

ॐ मूषकवाहनाय नमः। दूर्वाङ्कुरयुग्मं समर्पयामि ।

ॐ विनायकाय नमः । दूर्वाङ्कुरयुग्मं समर्पयामि ।

ॐ ईशपुत्राय नमः । दूर्वाङ्करयुग्मं समर्पयामि ।

ॐ सर्वसिद्धिप्रदायकाय नमः । दूर्वाङ्कुरयुग्मं समर्पयामि ।

ॐ कुमारगुरवे । दूर्वाङ्कुरयुग्मं समर्पयामि ।

ॐ सर्वसंकष्टनाशनाय नमः। दूर्वाङ्कुरयुग्मं समर्पयामि ।

शमीपत्र 

धूप 

ॐ वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।

आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् । । एष धूपः भगवते। 

दीप –

ॐ आज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।

दीपं गृहाण देवेश त्रैलोक्यतिमिरापह।। एष दीपः भगवते।

नैवेद्य (पुआ, मोदक, पायस) 

विघ्नाय स्वाहा।

विनायकाय स्वाहा ।

वीराय स्वाहा ।

शूराय स्वाहा ।

उग्राय स्वाहा ।

भीमाय स्वाहा ।

हस्तिमुखाय स्वाहा ।

वरदाय स्वाहा ।

विघ्नपार्षदेभ्यः स्वाहा ।

विघ्नपार्षदीभ्यः स्वाहा ।

ताम्बूल

ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।

एलालवङ्गसंयुक्तं ताम्बूलं प्रतिगृह्यताम् । ।

इदं ताम्बूलं भगवते।

षड्विनायकपूजनम्

चन्दन फूल तथा अक्षत को एक साथ मिला लें। उसी में से थोड़ा-थोड़ा लेकर निम्नलिकित मन्त्र से पूजा करें।

सर्वोपचारार्थं गन्धपुष्पाक्षतादिकं ॐ मोदाय नमः ।

सर्वोपचारार्थं गन्धपुष्पाक्षतादिकं ॐ प्रमोदाय नमः ।

सर्वोपचारार्थं गन्धपुष्पाक्षतादिकं ॐ सुमुखाय नमः ।

सर्वोपचारार्थं गन्धपुष्पाक्षतादिकं ॐ दुर्मुखाय नमः ।

सर्वोपचारार्थं गन्धपुष्पाक्षतादिकं ॐ अविघ्नाय नमः ।

सर्वोपचारार्थं गन्धपुष्पाक्षतादिकं ॐ विघ्नहन्त्रे नमः ।

विशेषार्घ्यदानम् –

विशेषार्घ्य के लिए काँसा का कटोरा लेकर उसमें उपर अर्घ्य में दी गयी वस्तु के साथ कुछ कच्चा फल डालकर अर्पित करें।

रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक।

भक्तानामभ्यकर्ता त्राता भव भवार्णवात् । । 

द्वैमातुर कृपासिन्धो पाण्मातुराग्रज प्रभो ।

वरद त्वं वरं देहि वांछितं वाञ्छितार्थद ।

गृहाणार्घ्यमिदं देव सर्वलोकनमस्कृत । 

अनेन सफलार्घ्येण फलदोऽस्तु सदा मम ।।

एक थाली में 21 लड्डू सजाकर भोग

अरघा में जल लेकर

एतानि एकविंशतिसंख्याकानि मोदकानि श्रीगणाधिपति प्रीतिद्वारा मम —— गोत्रस्य——नामकस्य ——-कामनासिद्धये श्रीगणाधिपतिप्रीत्यर्थमहमुत्सृज्ये।

(अगले पृष्ठ पर जायें)

Pages: 1 2 3 4 5

Leave a Reply

Your email address will not be published. Required fields are marked *